Dailyhunt
Sridevendrakrita Srimat Somasundara Stuti श्रीदेवेन्द्रकृत श्रीमत् सोमसुन्दर स्तुतिः

Sridevendrakrita Srimat Somasundara Stuti श्रीदेवेन्द्रकृत श्रीमत् सोमसुन्दर स्तुतिः

हालास्य स्तुति

कं ब्रह्माद्वितीयं च परिपूर्णं परात्परम्।

इति यो गीयते वेदैः तं वन्दे सोमसुन्दरम्॥ १ ॥

ज्ञातृ-ज्ञान-ज्ञेयरूपं विश्वं व्याप्य व्यवस्थितम्।

स्वयं सर्वैरदृश्यो यः तं वन्दे सोमसुन्दरम्॥ २ ॥

अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः।

ददाति च फलं तेषां तं वन्दे सोमसुन्दरम्॥ ३ ॥

यं विदित्वा बुधास्सर्वे कर्म-बन्ध-विवर्जिताः।

लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम्॥ ४ ॥

देवदेवं यमाराध्य मृकण्डुतनयो मुनिः।

नित्यत्वमगमत्सद्यः तं वन्दे सोमसुन्दरम्॥ ५ ॥

निज-नेत्राम्बुज-कृत-पूजया परितोष्य यम्।

श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम्॥ ६ ॥

येन सृष्टं जगत्सर्वं रक्षितं संहृतं क्रमात्।

सत्यं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम्॥ ७ ॥

यस्मै वेदाश्च चत्वारो नमस्यन्ति वपुर्धराः।

ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम्॥ ८ ॥

यस्मात्परं चापरं च किञ्चिद्वस्तु न विद्यते।

ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम्॥ ९ ॥

यस्य प्रणाममात्रेण सन्ति सर्वाश्च सम्पदः।

सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम्॥ १० ॥

यस्य दर्शन मात्रेण ब्रह्महत्यादि पातकम्।

अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम्॥ ११ ॥

उत्तमाङ्गं च चरणं विधिना विष्णुनाऽपि च।

न दृश्यते यस्य यत्नात् तं वन्दे सोमसुन्दरम्॥ १२ ॥

त्वया नीपारण्यनाथ त्वदन्यान् समानाहुर्दैवतान् पापिनस्ते।

तदा शम्भो त्वत्समं दैवतं स्याद्- यदा योगो वाजिनो रासभस्य॥ १३ ॥

अणोरणुस्त्वं महतो महांस्त्वं सर्वात्मभावात्परिपूर्ण एकः।

त्वयैव शम्भो महिमा त्वदीयो विज्ञायते वक्तुमिमं क्षम: कः॥१४ ॥

इति स्तुत्वा महादेवं भक्त्या परवशो वृषा। दण्डवत्सन्निधौ तस्य प्रणमाम महीतले॥

Edited By - Priya Dixit

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Webduniya Marathi